|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.84. अध्यायः 084
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण धौम्यंप्रति अर्जुनेन विना स्वस्य काम्यकवनेऽनमिरुचिकथनपूर्वकं निवासाय स्थानान्तरकथनप्रार्थना ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-84-0x(1993)(19580)
भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः।
पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥ 3-84-1(19581)
मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमः।
अस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ॥ 3-84-2(19582)
स हि वीरोऽनुरक्तश् समर्थश्च तपोधनः।
कृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ॥ 3-84-3(19583)
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिविघातिनौ।
अभिजानामि विक्रान्तौ तथा व्यासः परन्तपौ ॥ 3-84-4(19584)
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ।
नारदोऽपितथा वेद योष्यशंसत्सदा मम ॥ 3-84-5(19585)
तथाऽहमपि जानामि नरनारायणावृषी।
शक्तोऽयमित्यतो मत्वा मया स प्रेषितोऽर्जुनः ॥ 3-84-6(19586)
इन्द्रादनवरः शक्रं सुरसूनुः सुराधिपम्।
द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ॥ 3-84-7(19587)
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयः।
धृतराष्ट्रस्य पुत्रेण सुधृताः सुमहाबलाः ॥ 3-84-8(19588)
सर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा।
`सर्वे महारथा मुख्याः सर्वे जितपरिश्रमाः'।
योद्धुकामाश्च पार्थेन सततं ये महाबलाः ॥ 3-84-9(19589)
स च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः।
योऽस्त्रवेगानिलबलः शरार्चिस्तलनिःस्वनः।
रजोधूमोऽस्त्रसंपातो धार्तराष्ट्रानिलोद्धतः ॥ 3-84-10(19590)
निसृष्ट इव कालेन युगान्तज्वलनो यथा।
मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ॥ 3-84-11(19591)
तं स कुष्णानिलोद्धूतो दिव्यास्त्रज्वलनो महान्।
श्वेतवाजिबलाकाभृद्गण्डीवेन्द्रायुधोल्बणः ॥ 3-84-12(19592)
संरब्धः शरधाराभिः सुधीप्तं कर्णपावकम्।
उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ॥ 3-84-13(19593)
स साक्षादेव सर्वाणि शक्रात्परपुरंजयः।
दिव्यान्यस्त्राणि वीभत्सुर्यथावत्प्रतिपत्स्यते ॥ 3-84-14(19594)
अलं स तेषां सर्वेषामिति मे धीयते मतिः।
नास्ति त्वतिक्रिया तस् रणेऽरीणां प्रतिक्रिया ॥ 3-84-15(19595)
ते वयं पाण्डवं सर्वे गृहीतास्त्रमरिंदमम्।
द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ॥ 3-84-16(19596)
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदांवर।
अवधानं न गच्छामः काम्यके सह कृष्णया ॥ 3-84-17(19597)
भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि।
आख्यातु रमणीयं च सेवितं पुण्यक्रमभिः ॥ 3-84-18(19598)
यत्रकंचिद्वयं कालं वसन्तः सत्यविक्रमम्।
प्रतीक्षामोऽर्जुनं वरं वृष्टिकामा इवाम्बुदम् ॥ 3-84-19(19599)
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः प्रतिश्रुतान्।
सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ॥ 3-84-20(19600)
आचक्ष्व न हि मे ब्रह्मन्रोचते तमृतेऽर्जुनम्।
वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशंप्रति ॥ 3-84-21(19601)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-84-7 अनवरोऽन्यूनः ॥ 3-84-10 रजःकार्यं क्रोधः स एव धूमो यस्य। धार्तराष्ट्रैरनिलैरिव उद्धत उद्दीपितः ॥ 3-84-11 कक्षं तृणवनम् ॥ 3-84-12 उल्वणो दुःसहः ॥ 3-84-15 अलं जेतुं पर्याप्तः ॥ 3-84-16 द्रष्टारो द्रक्ष्यामः ॥ 3-84-17 अवधानं स्वास्थ्यम् ॥ 3-84-18 ब्रह्माढ्यं जलवच्छुचीति क. घ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|